धर्म

हर मंगलवार करें श्रीमारुति कवच का पाठ, हर कष्ट से होगी सुरक्षा

सप्ताह का हर दिन किसी न किसी देवी देवता को समर्पित होता है वहीं मंगलवार का दिन भगवान हनुमान की कृपा पाने के लिए श्रेष्ठ माना जाता है इस दिन भक्त भगवान को प्रसन्न करने के लिए विधिवत पूजा करते है और व्रत भी रखते है मान्यता है।

 

अगर हर मंगलवार को पूजा पाठ और व्रत के अलावा श्रीमारुति कवच का संपूर्ण पाठ पूर्ण भक्ति भाव से किया जाए तो लाभ जरूर मिलता है और हर तरह के कष्ट, संकट और परेशानियों से सुरक्षा भी होती है, तो आज हम आपके लिए लेकर आए है संपूर्ण श्रीमारुति कवच पाठ।

 

श्रीमारुति कवच-

कार्तवीर्यस्य कवयं कथितं ते मुनीश्वर ।
मोहविध्वंसनं जैत्रं मारुतेः कवचं श्रृणु ॥1॥

यस्य संधारणात् सद्यः सर्वे नश्यन्त्युपद्रवाः।
भूतप्रतारिजं दुःखं नाशमेति न संशयः ॥ 2 ॥

एकदाहं गतो द्रष्टुं रामं रमयतां वरम् ।
आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम् ॥ 3 ॥

तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः ।
नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ॥ 4 ॥

तंत्र सर्वे मया वृत्तं रावणस्य वधान्तकम् ।
पृष्टे प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात् । 15 ॥

ततः कथान्ते भगवान् मारुतेः कवचं ददौ।
मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ॥6॥

भविष्यदेतन्निर्दिष्टं बालभावेन नारद ।
श्रीरामेणाञ्जनासूनोर्भुक्तिमुक्तिप्रदायकम्॥7॥

– कवच –

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः ॥8॥

ऊर्ध्व पातु कपिश्रेष्ठः केसरिप्रियनन्दनः ।
अधस्ताद्विष्णुभक्तस्तु पातु मध्येच पावनिः ॥9॥

लङ्काविदाहकः पातु सर्वापद्धयो निरन्तरम् ।
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥10॥

भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ।
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥11॥

कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः ।
नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥12॥

पातु कण्ठंतुदैत्यारिः स्कन्धौ पातु सुरारिजित् ।
भुजौ पातु महातेजाः करौ च चरणायुधः ॥13॥

नखान् नखायुधः पातु कुक्षौ पातु कपीश्वरः ।
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥14॥

लङ्कानिभर्जनः पातु पृष्ठदेशे निरन्तरम् ।
नाभि श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ॥15॥

गुह्यं पातु महाप्राज्ञः सक्थिनी अतिथिप्रियः ।
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ॥16॥

जङ्घ पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः ।
अचलोद्धारकः पातु पादौ भास्करसंनिभः ॥17॥

अङ्गानि पातु सत्त्वाढ्यः पातु पादाङ्गुलीः सदा ।
मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान्॥18॥

दिवारात्रौ त्रिलोकेषु सदागतिसुतोऽवतु ।
स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः ॥19॥

लोकोत्तरगुणः श्रीमान् पातु त्र्यम्बकसम्भवः ।
प्रमत्तमप्रमत्तं वा शयानं गहने ऽम्बुनि ॥20॥

स्थलेऽन्तरिक्षे ह्यग्नौ वा पर्वते सागरे दुमे ।
संग्रामे संकटे घोरे विरारूपधरोऽवतु ॥ 21 ॥

डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः ।
शयानं मां विभुः पातु पिशाचोरगराक्षसीः ॥ 22॥

दिव्यदेहधरो धीमान् सर्वसत्त्वभयंकरः ।
साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम्॥ 23 ॥

यद्रूपं भीषणं दृष्ट्रा पलायन्ते भयानकाः ।
स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ॥ 24॥

स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः ।
सूर्यमण्डलग: श्रीदः पातु कालत्रयेऽपि माम् ॥ 25॥

यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः ।
देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा॥ 26॥

 
सभया भयनिर्मुक्ता भवन्ति स्वकृतानुगाः ।
यस्यागेरुकथाः पुण्याः श्रूयन्ते प्रतिकल्पके ॥ 27 ॥

सोऽवतात् साधक श्रेष्ठं सदा रामपरायणः ।
वैधात्रधातृप्रभृति यत्किंचिद्दृश्यतेऽत्यलम् ॥28॥

विद्धि व्याप्तं यथा कीशरूपेणानञ्जनेन तत् ।
तो विभुः सोऽहमेषोऽहंस्वीयः स्वयमणुर्बृहत् ॥ 29 ॥

ऋग्यजुः सामरूपश्च प्रणवस्त्रिवृदध्वरः ।
तस्मैस्वस्मै च सर्वस्मै नतोऽस्म्यात्मसमाधिना ॥ 30॥

अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे ।
समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ॥ 31 ॥

नमो हनुमते तस्मै नमो मारुतसूनवे ।
नमः श्रीरामभक्ताय श्यामाय महते नमः ॥ 32 ॥

नमो वानरवीराय सुग्रीवसख्यकारिणे ।
लङ्काविदहनायाथ महासागरतारिणे ॥33॥

सीताशोकविनाशाय राममुद्राधराय च ।
रावणान्तनिदानाय नमः सर्वोत्तरात्मने ॥ 34 ॥

मेघनादमखध्वंसकारणाय नमो नमः ।
अशोकवनविध्वंसकारिणे जयदायिने ॥ 35॥

वायुपुत्राय वीराय आकाशोदरगामिने ।
वनपालशिरश्छेत्रे लङ्काप्रसादभञ्जिने ॥ 36 ॥

ज्वलत्काञ्चनवर्णाय दीर्घलङ्गलधारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ 37 ॥

अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे ।
लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने ॥ 38 ॥

रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमो नमः ।
ऋक्षवानरवीरौधप्रसादाय नमो नमः ॥ 39 ॥

परसैन्यवलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।
विषघ्नाय द्विषघ्नाय भयघ्नाय नमो नमः ॥ 40 ॥

महारिपुभयघ्नाय भक्तत्राणे ककारिणे ।
घरप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥ 41 ॥

पयः पाषाणतरणकारणाय नमो नमः ।
बालार्कमण्डलग्रासकारिणे दुःखहारिणे। ॥ 42 ॥

नखायुधाय भीमाय दन्तायुधधराय च।
विहङ्गमाय शर्वाय वज्रदेहाय ते नमः ॥ 43 ॥

प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने ।
करस्थशैलशस्त्राय रामशस्त्राय ते नमः ॥44॥

कौपीनवाससे तुभ्यं रामभक्तिरताय च ।
दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥ 45॥

कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ।
स्वाम्याज्ञापार्थसंग्रामसख्यसंजयकारिणे ॥ 46 ॥

भक्तानां दिव्यवादेषु संग्रामे जयकारिणे ।
किल्किलाबुबुकाराय घोरशब्दकराय च ॥ 47 ॥

सर्वाग्निव्याधिसंस्तम्भकारिणे भयहारिणे ।
सदा वनफलाहारसंतृप्ताय विशेषतः ॥ 48 ॥

महार्णवशिलाबद्धसेतुबन्धाय ते नमः ।
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ॥ 49 ॥

यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः ।
अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः ॥ 50 ॥

कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे ।
किं पुनर्बहुनोक्तेन साधितलक्षमादरात् ॥ 51 ॥

प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ॥ 52॥

(इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे मारुतिकवचनिरूपणं
नामाष्टसप्ततिमोऽध्यायः ॥)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
Независимо дали сте опитен готвач или начинаещ, в кухнята винаги има място за нови идеи и хитрости. Лесни рецепти и съвети за приготвяне на вкусни ястия могат да направят готвенето истинско удоволствие. А ако сте любители на градинарството, полезни статии за отглеждане на зеленчуци и плодове ще ви вдъхновят да създадете собствена градина. С малко креативност и желание, можете да превърнете ежедневието си в по-вкусно и цветно приключение. Най-доброто време за кафе: Как В градината всяка капка вода е ценна, затова е добре да знаеш как да я използваш разумно. Можеш да събираш дъждовна вода в бидони или да инсталираш капково напояване, което ще спести ресурси и време. В кухнята пък, опитай да добавиш пресни подправки от градината в любимите си ястия – те придават уникален вкус и аромат. Не забравяй, че малките трикове в ежедневието могат да направят голяма разлика!